Lord Vishnu Bhajans and Hymns

NARAYANOPANISAT
॥ नारायणोपनिषत् ॥

ॐ सह नाववतु सह नौ भुनक्तु । सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु । मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ saha nāvavatu saha nau bhunaktu । saha vīryaṃ karavāvahai । tejasvināvadhītamastu । mā vidviṣāvahai ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेयेति । नारायणात्प्राणो जायते । मनः सर्वेन्द्रियाणि च । खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी । नारायणाद् ब्रह्मा जायते । नारायणाद् रुद्रो जायते । नारायणादिन्द्रो जायते । नारायणात्प्रजापतयः प्रजायन्ते ।
नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दासि ।

Posted in EBOOK.